||Sundarakanda ||

|| Sarga 67||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुन्दरकाण्ड.
अथ सप्तषष्टितमस्सर्गः॥

एवमुक्तस्तु हनुमान् राघवेण महात्मना।
सीताया भाषितं सर्वं न्यवेदयत राघवे॥1||

स॥ महात्मना राघवेण एवं उक्तः तु हनुमान् सीताया भाषितं सर्वं न्यवेदयत॥

Thus asked by Raghava, Hanuman related everything that was said by Sita.

इदमुक्तवती देवी जानकी पुरुषर्षभ।
पूर्ववृत्त मभिज्ञानं चित्रकूटे यथातथम्॥2||

स॥ पुरुषर्षभ देवी जानकी चित्रकूटे पूर्व वृत्तं अभिज्ञानं इदं उक्तवती यथा तथम्॥

'Oh Bull among men ! Divine Janaki related to me as a token of identification, an incident of the past that occurred on the Chitrakuta as it is'.

सुखसुप्ता त्वया सार्थं जानकी पूर्वमुत्थिता।
वायसः सहसोत्पत्य विददार स्तनांतरे॥3||
पर्यायेण च सुप्तत्वं देव्यंके भरताग्रज।
पुनश्च किल पक्षी स देव्या जनयति व्यथाम्॥4||
पुनः पुनरुपागम्य विददार भृशं किल।
ततस्त्वं बोधितस्तस्याः शोणितेन समुत्‍क्षितः॥5||

स॥ त्वया सार्थं सुखसुप्ता जानकी पूर्वं उत्थिता वायसः सहसा उत्पत्य स्तनांतरे विददार॥भरताग्रज त्वं पर्यायेण देव्यंके सुप्तः सः पक्षी पुनश्च देव्याः व्यथाम् जनयति किल ॥पुनः पुनः उपागम्य भृशं विददार किल । ततः त्वं तस्याः शोणितेन समुक्षितः बोधितः किल॥

' Earlier when she was lying down along with you, she woke up early and a crow came swiftly and scratched on her breasts. Rama ! Then you woke up and you slept in her lap. The bird again started hurting her. Again and again the crow came and scratched her. Then being wetted by her blood, you woke up'.

वायसेव च ते नैव सततं बाध्यमानया।
बोधितः किल देव्या त्वं सुखसुप्तः परंतप॥6||
तां तु दृष्ट्वा महाबाहो दारितां च स्तनांतरम्।
अशी विष इव क्रुद्धो निश्वसन् अभ्यभाषथाः॥7||
नखाग्रैः केन ते भीरु दारितं तु स्तनांतरम्।
कः क्रीडति सरोषेण पंचवक्त्रेण भोगिना॥8||

स॥ परन्तप तेन वायसेनैव सततं बाध्यमानया देव्या सुखसुप्तः त्वं बोधितः किल॥महाबाहो स्तनान्तरे दारिताम् ताम् दृष्ट्वा कृद्धः आशीविषैव निःश्वसन् अभ्यभाषथाः॥भीरु ते स्तनांतरं केन नखाग्रैः दारितं। सरोषेन पंचवक्त्रेण भोगिना कः क्रीडति॥

' Oh Scorcher of enemies ! Troubled by the crow repeatedly , the divine lady woke you and informed you. Oh Strong armed one ! Seeing her scratched on her breasts, furious like a hissing serpent you said this. "Oh Timid one ! Who scratched on your breasts with the tip of their nails. Who is sporting with an enraged five hooded serpent ?"

निरीक्षमाणः सहसा वायसं समवैक्षथाः।
नखैः सरुधिरैः तीक्ष्‍णैः तामेवाभिमुखं स्थितम्॥9||
सुतः किल स शक्रस्य वायसः पततां वरः।
धरांतरचरश्शीघ्रं पवनस्य गतौ समः॥10||

स॥ निरीक्षमाणः सरुधिरैः तीक्षणैः नखैः तामेव अभिमुखं वायसं सहसा समवैक्षत॥पतताम् वरः सः वायसः शक्रस्य पुत्रः। धरांतरचरश्शीघ्रं किल । शीघ्रं गतौ पवनस्य समः॥

" Seeing all around, you saw the crow with blood on its sharp nails standing in front of her. Foremost among birds, the crow is the son of Indra, moving about all over the earth. In speed he is equal to Vayu".

ततस्तस्मिन् महाबाहो कोप संवर्तितेक्षणः।
वायसे त्वं कृथाः क्रूरां मतिं मतिमतांवर॥11||
सदर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण ह्ययोजयः।
प्रदीप्त इव कालाग्निः जज्वालाभिमुखः खगम्॥12||
क्षिप्तवां स्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति |
ततस्तु वायसं दीप्तः सदर्भोऽनुजगाम ह॥13||

स॥ महाबाहो मतिमतां वर कोपसंवर्तितेक्षणः ततः तस्मिन् वायसे क्रूरां मतिं कृथाः॥सः संस्तरात् दर्भं गृह्य ब्राह्मेण अस्त्रेण योजयत्। सः दीप्तः कालाग्निः इव द्वैजं अभिमुखः जज्वाल॥त्वं प्रदीप्तं तं दर्भं वायसं प्रति क्षिप्तवान् । ततः स दर्भः दीप्तः वायसं प्रति अनुजगाम ह॥

"Oh Strong armed one, revered among the wise, with anger in your eyes you made up your mind about the crow. Taking a blade of grass from the mat , you invoked it with Brahma's powers. Then he blazed like the fire at the time of dissolution, and hurtled towards the bird. You hurled the blazing blade of grass on the crow. Then the blazing blade of grass followed the crow".

स पित्रा च परित्यक्तैः सुरैश्च समहर्षिभिः।
त्रीन् लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति॥14||
पुनरेवागतस्त्रस्तः त्वत्सकाश मरिंदम।
स तं निपतितं भूमौ शरण्यः शरणागतम्॥15||
वधार्हमपि काकुत्‍स्थ कृपया पर्यपालयः।

स॥ सः पित्रा समहर्षिभिः सुरैश्च परित्यक्तः त्रीन् लोकान् संपरिक्रम्य त्रातारं न अधिगच्छति॥ अरिन्दम त्रस्तः पुनरेव त्वत् सकाशं आगतः शरण्यः ।सः काकुत्‍स्थः शरणागतं भूमौ निपतितां तं वधार्हं अपि कृपया पर्यपालयः॥

' Abandoned by his father, the great seers as well as Suras and having gone around the three worlds he could not find a savior. Oh Destroyer of enemies ! That crow came back trembling to you for protection and fallen on the ground seeking protection. Then the Kakutstha with kindness saved the one who deserved to be killed.'

मोघमस्त्रं न शक्यं तु कर्तु मित्येव राघव॥16||
भवांस्तस्याक्षि काकस्य हिनस्तिस्म स दक्षिणम्।
रामं त्वां स नमस्कृत्य राज्ञे दशरथाय च॥17||
विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम्।

स॥ राघव अस्त्रं मोघं कर्तुं न शक्यं इत्येव भवान् तस्य काकस्य दक्षिणं अक्षि हिनस्ति स्म॥राम तदा सः काकः विसृष्टः त्वाम् राज्ञे दशरथाय च नमस्कृत्य स्वं आलयं प्रतिपेदे॥

' Raghava ! It was not possible to withdraw the divine weapon. So you struck the right eye of the crow instead. Rama! Then the crow thus saved offered salutations to you and Dasaratha and went back to its abode '.

एवमस्त्र विदां श्रेष्ठः सत्त्ववान् शीलवानपि॥18||
किमर्थमस्त्रं रक्षस्सु न योजयति राघवः।
न नागा नापि गंधर्वा ना सुरा न मरुद्गणाः॥19||
न च सर्वे रणे शक्ता रामं प्रति समासितुम्।

स॥ शीलवान् अपि राघव एवं अस्त्रविदाम् श्रेष्ठः सत्यवान् बलवान् अपि रक्षस्सु अस्त्रं किमर्थं न योजयति॥रणे रामं प्रति समासितुं नागाः न सुराः न मरुद्गणाः न गंधर्वाः न ॥

' Oh Raghava ! That way being of good conduct, the foremost among wielders of weapons, truthful and powerful , why are you not using weapons against the Rakshasas. It is not possible for Nagas, Gandharvas, Suras , Marut ganas, or anybody else to face Rama in a battle'.

तस्य वीर्यवतः कश्चित् यद्यस्ति मयि संभ्रमः॥20||
क्षिप्रं सुनुशितैर्बाणैः हन्यतां युधिरावणः।
भ्रातु रादेश माज्ञाय लक्ष्मणो वा परंतपः॥21||
स किमर्थं नरवरो न मां रक्षति राघवः।

स॥ वीर्यवतः तस्य मयि संभ्रमः अस्ति यदि सुनिशितैः बाणैः रावणः क्षिप्रं युधि हन्यताम्॥परन्तपः नरवरः राघवः वा भ्रातुः आदेशं आज्ञाय मां किमर्थम् न रक्षति॥

' For that Very valiant one If he has any concern for me you will certainly slay Ravana with sharp arrows in the battle immediately. Oh Scorcher of enemies ! The best of men Rama or even Lakshmana with the orders of his brother , why are they not protecting me?'

शक्तौतौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ॥22||
सुराणामपि दुर्दर्षौ किमर्थं मामुपेक्षतः।
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः॥23||
समर्थौ सहितौ यन्मां नावेक्षेते परंतपौ।

स॥ वाय्वग्नि समतेजसः शक्तौ पुरुषव्याघ्रौ तौ सुराणां दुर्धर्षौ यदि अपि माम् किमर्थं उपेक्षतः॥ममैव महत् किंचित् दुष्कृतं अस्ति। संशयः न। यत् समर्थावपि परन्तपौ तौ माम् न अवेक्षेते॥

' The two tigers among men, equal in power to Vayu and Agni, being unassailable even to gods, why are they neglecting me. I must have done some sin. No doubt. Even though capable, the scorchers of enemies are not protecting me'.

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्॥24||
पुनरप्यह मार्यां ता मिदं वचनमब्रुवम्।
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे॥25||
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते।

स॥ करुणाम् साश्रुभाषितम् वैदेह्याः वचनम् श्रुत्वा अहं पुनरपि तां आर्यां इदं वचनं अब्रवम्॥देवि रामः त्वत् शोकविमुखः सत्येन ते शपे । रामे दुःखाभिपन्ने लक्ष्मणः परितप्यते॥

Hearing those piteous words spoken with tears by Vaidehi , I again spoke to the venerable lady. " Oh Divine lady ! I swear to you Rama is full of grief. With Rama filled with sorrow Lakshmana too is deeply afflicted".

कथंचित् भवती दृष्टा न कालः परिशोचितुम्॥26||
अस्मिन्मुहूर्ते दुःखानां अंतं द्रक्ष्यसि भामिनि।
तावुभौ नरशार्दूलौ राजपुत्रावनिंदितौ॥27||
त्वदर्शनकृतोत्साहौ लंकां भस्मीकरिष्यतः।
हत्वा च समरे रौद्रं रावणं सहबांधवम्॥28||
राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवं।

स॥ भामिनी कथंचित् भवती दृष्टा। परिदेवितुम् कालः न । इमम् मुहूर्तं दुःखानां अंतं द्रक्ष्यसि॥नरशार्दूलौ अनिन्दितौ महाबलौ त्वत् दर्शन कृतोत्साहौ उभौ तौ राजपुत्रौ लंकां भस्मीकरिष्यतः॥वरारोहे राघवः रौद्रं सहबांधवं रावणं समरे हत्व च त्वां स्वां पुरीम् नयते धृवम्॥

" Oh Lovely lady ! Somehow you have been found. This is not the time for lamentation. This moment you will see the end of grief . The two princes, tigers among men, the blameless and mighty ones, desirous of seeing you will burn down this Lanka to ashes. Oh Best among women ! Furious Raghava killing Ravana with all his relatives will certainly take you back to his city'..

यत्तु रामो विजानीयात् अभिज्ञानमनिंदिते॥29||
प्रीतिसंजननं तस्य प्रदातुं त्व मिहार्हसि।
साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथन मुत्तमम्॥30||
मुक्तावस्त्राद्ददौ मह्यं मणिमेतं महाबल।

स॥अनिंदिते रामः यत् विजानीयात् तस्य प्रीति संजननं अभिज्ञानं इह दातुं त्वं अर्हसि॥ महाबल सा सर्वाः दिशः अभिवीक्ष्य वेण्युद्‍ग्रथितं उत्तमं एतं मणिं मह्यं ददौ॥

" Oh Blameless one ! You need to give a token of recognition which Rama knows and which generates happiness". Oh Powerful one ! She looked in all directions, untying this gem which is worn on her hair, from her clothes and gave it to me'.

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह॥31||
शिरसा तां प्रणम्यार्यां अहमागमने त्वरे।

स॥रघूद्वह दिव्यं मणिं तव हेतोः प्रतिगृह्य आर्यां तां शिरसा प्रणम्य अहं आगमने त्वरे॥

' Foremost among Raghus ! Taking this gem for your sake, bowing with my head to the venerable lady I returned quickly.'

गमने च कृतोत्साहं अवेक्ष्य वरवर्णिनी॥32||
विवर्थमानं च हि मामुवाच जनकात्मजा।
अश्रुपूर्णमुखी दीना भाष्पसंदिग्धभाषिणी॥33||
ममोत्पतनसंभ्रान्ता शोकवेगसमाहता।

स॥ वरवर्णिनी जनकात्मजा गमने कृतोत्साहं विवर्धमानं च मां आवेक्ष्य उवाच॥अश्रुपूर्णमुखी दीना भाष्पसंदिग्धभाषिणी मम उत्पतनसंभ्राता शोकवेग समाहता॥

'The fair complexioned daughter of Janaka, seeing me growing and getting ready for returning said the following. With a face filled with tears, piteous, with words drenched with tears, concerned with my departure, shedding tears she said the following'.

हनुमन् सिंहसंकाशा वुभौ तौ रामलक्ष्मणौ॥34||
सुग्रीवं च सहामात्यं सर्वान् ब्रूया ह्यनामयम्।
यथा च स महाबाहुः मां तारयति राघवः।
अस्मादुःखांबु संरोधात् त्वं समाधातुमर्हसि॥35||

स॥ हनुमान् सिंहसंकाशौ तौ रामलक्ष्मणौ उभौ सहामात्यं सुग्रीवं च सर्वान् अनामयम् ब्रूयाः ॥ महाबाहुः सः राघवः अस्मात् दुःखाम्बुसंरोधात् यथा तारयति त्वं समाधातुम् अर्हसि॥

" Oh Hanuman ! Tell both Rama and Lakshmana, the two lions among men as well as Sugriva along with all his ministers about my welfare. You can make the arrangements so that Raghava with powerful arms can save me from the ocean of sorrows".

इमं च तीव्रं मम शोकवेगं
रक्षोभिरेभिः परिभर्त्सनं च।
ब्रूयास्तु रामस्य गतस्समीपम्
शिवश्च तेऽध्वास्तु हरिप्रवीर॥36||

स॥ हरिप्रवीर रामस्य समीपं गतः मम इमं तीव्रं शोकवेगं एभिः रक्षोभिः परिभर्त्स्यनं च ब्रूयाः । ते अध्वा शिवः अस्तु॥

"Oh Best of Vanaras ! Go near Rama. Tell him about the intensity of my great sorrow, as well as the threats from the Rakshasas. Let your journey be speedy and auspicious".

एतत्त वार्या नृपराजसिंह
सीता वचः प्राह विषादपूर्वम्।
एतच्च बुद्ध्वा गदितं मया त्वम्
श्रद्दत्स्व सीतां कुशलां समग्राम्॥37||

स॥ न्पपराजसिंह आर्या सीता विषादपूर्वं एतत् वचः तव आह। मया गदितां तत् बुध्वा सीतां समग्रां कुशलां श्रद्धत्स्व॥

' Oh Lion among Kings ! Venerable Sita spoke these sorrowful words for you. "What all has been said by me, that let him know". Oh Rama ! Sita is safe in all respects. Have faith'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे सप्तषष्टितमस्सर्गः॥

Thus ends the Sarga sixty seven of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki.

|| Om tat sat||